Music Video

Shri Ekmukhi Hanumatkavacham
Watch {trackName} music video by {artistName}

Credits

PERFORMING ARTISTS
Shri Ravindra
Shri Ravindra
Performer
Hari Om Sharan
Hari Om Sharan
Performer
COMPOSITION & LYRICS
Nandu Honap
Nandu Honap
Composer

Lyrics

अथ ध्यानं प्रवक्ष्यामि श्रृणुसर्वांगसुन्दरि । यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् ॥1॥ पंचवक्त्रं महाभीमं त्रिपंचनयनैर्युतम् । बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥2॥ पूर्वंतु वानरं वक्त्रं कोटिसूर्यसमप्रभम् । दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥3॥ अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् । अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥4॥ पश्चिमं गारुडं वक्त्रं वक्रतुंडं महाबलम्॥ सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥5॥ उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् । पातालसिंहवेतालज्वररोगादिकृन्तनम् ॥6॥ ऊर्ध्वं हयाननं घोरं दानवांतकरं परम । येन वक्त्रेण विप्रेंद्र तारकाख्यं महासुरम् ॥7॥ जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् । ध्यात्वा पंचमुखं रुद्रं हनुमन्तं दयानिधिम् ॥8॥ खंग त्रिशूलं खट्वांगं पाशमंकुशपर्वतम् । मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् ॥9॥ भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुंगवम् । एतान्यायुधजालानि धारयन्तं भजाम्यहम् ॥10॥ प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् । दिव्यमाल्याम्बरघर दिव्यगन्धानुलेपनम् ॥11॥ सर्वाश्चर्यमय देव हनुमद्विश्वतोमुखम् । पश्चास्यमच्युतम नेकविचित्रवर्णं वक्त्रं शशांकशिखरं कपिराजवयम । पीतांबरादिमुकुटैरूपशोभितांग पिंगाक्षमाद्यमनिशं मनसा स्मरामि ॥12॥ मर्कटेशं महोत्साहं सर्वशत्रुहरं परम् । शत्रु संहर मां रक्ष श्रीमन्नापदमुद्धर ॥13॥ ॐ हरिमर्कट मर्कट मन्त्रमिदं परिलिख्यति लिख्यति वामतले । यदि नश्यति नश्यति शत्रुकुलं यदि मुश्चति मुश्चति वामलता ॥14॥
Writer(s): Nandu Honap, Traditional Lyrics powered by www.musixmatch.com
Get up to 2 months free of Apple Music
instagramSharePathic_arrow_out